मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६३, ऋक् ८

संहिता

अयु॑क्त॒ सूर॒ एत॑शं॒ पव॑मानो म॒नावधि॑ ।
अ॒न्तरि॑क्षेण॒ यात॑वे ॥

पदपाठः

अयु॑क्त । सूरः॑ । एत॑शम् । पव॑मानः । म॒नौ । अधि॑ ।
अ॒न्तरि॑क्षेण । यात॑वे ॥

सायणभाष्यम्

पवमानः पूयमानः सोमो मनावधि मनुर्मनुष्यः तस्मिन्मनुष्ये इत्यर्थः अन्तरिक्षेण यातवे गन्तुं सूरः प्रेरकस्य सूर्यस्यैतशमश्वम् । एतग्वा एतश इत्यश्वनामसुपाठात् । अयुक्त युंक्ते ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१