मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६३, ऋक् १२

संहिता

अ॒भ्य॑र्ष सह॒स्रिणं॑ र॒यिं गोम॑न्तम॒श्विन॑म् ।
अ॒भि वाज॑मु॒त श्रवः॑ ॥

पदपाठः

अ॒भि । अ॒र्ष॒ । स॒ह॒स्रिण॑म् । र॒यिम् । गोऽम॑न्तम् । अ॒श्विन॑म् ।
अ॒भि । वाज॑म् । उ॒त । श्रवः॑ ॥

सायणभाष्यम्

हे सोम त्वं सहस्रिणं बहुसंख्याकं गोमन्तं गोभिर्युक्तमश्विनं अश्ववंतं रयिं धनमभ्य- र्षास्मानभिगमय । उतापिच वाजं बलं श्रवोन्नं चास्मानभिगमय ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२