मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६३, ऋक् १३

संहिता

सोमो॑ दे॒वो न सूर्योऽद्रि॑भिः पवते सु॒तः ।
दधा॑नः क॒लशे॒ रस॑म् ॥

पदपाठः

सोमः॑ । दे॒वः । न । सूर्यः॑ । अद्रि॑ऽभिः । प॒व॒ते॒ । सु॒तः ।
दधा॑नः । क॒लशे॑ । रस॑म् ॥

सायणभाष्यम्

देवोन देवइव सूर्यो रोचमानः सोमोद्रिभिर्ग्रावभिः सुतोभिषुतः सन् कलशे द्रोणकलशे रसं दधानो धारयन् पवते धारया क्षरति ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२