मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६३, ऋक् २४

संहिता

अ॒प॒घ्नन्प॑वसे॒ मृधः॑ क्रतु॒वित्सो॑म मत्स॒रः ।
नु॒दस्वादे॑वयुं॒ जन॑म् ॥

पदपाठः

अ॒प॒ऽघ्नन् । प॒व॒से॒ । मृधः॑ । क्र॒तु॒ऽवित् । सो॒म॒ । म॒त्स॒रः ।
नु॒दस्व॑ । अदे॑वऽयुम् । जन॑म् ॥

सायणभाष्यम्

हे सोम मत्सरो मदकरो यस्त्वं मृधोहिंसकान् शत्रून् अपघ्नन् मारयन् क्रतुविदस्म- भ्यं प्रज्ञां प्रयच्छन् पवसे क्षरसि । सत्वदेवयुमदेवकामं जनं राक्षसवर्गं नुदस्व प्रेरय ॥ २४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३४