मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६३, ऋक् २९

संहिता

अ॒प॒घ्नन्त्सो॑म र॒क्षसो॒ऽभ्य॑र्ष॒ कनि॑क्रदत् ।
द्यु॒मन्तं॒ शुष्म॑मुत्त॒मम् ॥

पदपाठः

अ॒प॒ऽघ्नन् । सो॒म॒ । र॒क्षसः॑ । अ॒भि । अ॒र्ष॒ । कनि॑क्रदत् ।
द्यु॒ऽमन्त॑म् । शुष्म॑म् । उ॒त्ऽत॒मम् ॥

सायणभाष्यम्

हे सोम त्वं रक्षसो रक्षांस्यपघ्नन् विनाशयन् कनिक्रदच्छब्दंकुर्वन् द्युमन्तं दीप्तिमन्तमु- त्तमं श्रेष्ठं शुष्मं बलमभ्यर्षास्मान् प्रति पवस्व ॥ २९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३५