मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६४, ऋक् ३

संहिता

अश्वो॒ न च॑क्रदो॒ वृषा॒ सं गा इ॑न्दो॒ समर्व॑तः ।
वि नो॑ रा॒ये दुरो॑ वृधि ॥

पदपाठः

अश्वः॑ । न । च॒क्र॒दः॒ । वृषा॑ । सम् । गाः । इ॒न्दो॒ इति॑ । सम् । अर्व॑तः ।
वि । नः॒ । रा॒ये । दुरः॑ । वृ॒धि॒ ॥

सायणभाष्यम्

हे इन्दो सोम वृषा त्वं अश्वोनाश्वइव संचक्रदः संक्रंदसे । अपिच गाः पशूनर्वतोश्वां- श्चास्मभ्यं संप्रयच्छसीतिशेषः । किंच नोस्माकं राये धनाय दुरोद्वाराणि विवृधि विवृ- तानि कुरु ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३६