मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६४, ऋक् ४

संहिता

असृ॑क्षत॒ प्र वा॒जिनो॑ ग॒व्या सोमा॑सो अश्व॒या ।
शु॒क्रासो॑ वीर॒याशवः॑ ॥

पदपाठः

असृ॑क्षत । प्र । वा॒जिनः॑ । ग॒व्या । सोमा॑सः । अ॒श्व॒ऽया ।
शु॒क्रासः॑ । वी॒र॒ऽया । आ॒शवः॑ ॥

सायणभाष्यम्

वाजिनो बलवन्तः शुक्रासः शुक्राउज्ज्वलाः आशवो वेगवन्तश्च सोमासः सोमाः गव्या गवेच्छया अश्वयाश्वेच्छया च वीरया पुत्रेच्छयाच प्रासृक्षत ऋत्विग्भिः सृज्यन्ते ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३६