मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६४, ऋक् २१

संहिता

अ॒भि वे॒ना अ॑नूष॒तेय॑क्षन्ति॒ प्रचे॑तसः ।
मज्ज॒न्त्यवि॑चेतसः ॥

पदपाठः

अ॒भि । वे॒नाः । अ॒नू॒ष॒त॒ । इय॑क्षन्ति । प्रऽचे॑तसः ।
मज्ज॑न्ति । अवि॑ऽचेतसः ॥

सायणभाष्यम्

वेनाः कान्ताः स्तोतारोभ्यनूषत सोममभिष्टुवन्ति प्रचेतसः सुम्रतयः इयक्षन्ति यष्टुमिच्छ- न्ति च । अविचेतसो विशिष्टमतयो विचेतसः अविचेतसोविपरीतमतयइत्यर्थः मज्जन्ति नि- मज्जन्ति । येसोमं नाभिष्टुभन्ति न यजंति च ते नरके पतन्तीत्यर्थः ॥ २१ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४०