मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६५, ऋक् ६

संहिता

यद॒द्भिः प॑रिषि॒च्यसे॑ मृ॒ज्यमा॑नो॒ गभ॑स्त्योः ।
द्रुणा॑ स॒धस्थ॑मश्नुषे ॥

पदपाठः

यत् । अ॒त्ऽभिः । प॒रि॒ऽसि॒च्यसे॑ । मृ॒ज्यमा॑नः । गभ॑स्त्योः ।
द्रुणा॑ । स॒धऽस्थ॑म् । अ॒श्नु॒षे॒ ॥

सायणभाष्यम्

हे सोम गभस्त्योर्बाहुनामैतत् गभसन्ति दीपयन्ति निर्मश्नंत्याभ्यां अग्निमिति गभस्ती बाहू तयोर्मृज्यमानस्ताभ्यां शोध्यमानः सन् अद्भिः सोमसेचनार्थं चतुर्विधाआपस्ताभिर्व- सतीव्रीभीरेदधनाभिश्च यद्यदा परिषिच्यसे परितः सिच्यमानोभवसि । तदानीं द्रुणा द्रुमम- येन परिप्लवेन पात्रेण गृह्यमाणः सन् सधस्थं सहतिष्ठंत्यत्रेति सधस्थं स्थानं ग्रहचमसादिकं अश्नुषे प्राश्नोषि ॥ ‍६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः