यस्य॒ वर्णं॑ मधु॒श्चुतं॒ हरिं॑ हि॒न्वन्त्यद्रि॑भिः ।
इन्दु॒मिन्द्रा॑य पी॒तये॑ ॥
यस्य॑ । वर्ण॑म् । म॒धु॒ऽश्चुत॑म् । हरि॑म् । हि॒न्वन्ति॑ । अद्रि॑ऽभिः ।
इन्दु॑म् । इन्द्रा॑य । पी॒तये॑ ॥
हे अध्वर्य्वादयः वर्णं शत्रूणां वारकं येन असौ पीयते तेन मत्तेन शत्रवः संप्रहार्यन्तइ- ति शत्रुनिवारणसमर्थं मधुश्चुतं मधुररसस्य च्यावयितारं हरिं हरितवर्णं इन्दुं इन्धेरेतद्रूपम- त्रेष्यते सर्वतोदीप्यमानम् । उन्दीक्लेदनइत्यस्माद्वा । अभिषवानंतरं पात्रेषु क्षरणशीलं यस्य सोमस्य तव कारणमंशुं अद्रिभिर्हिन्वन्ति प्रेरयन्ति अभिषुण्वन्तीत्यर्थः । इन्द्राय पीतये इन्द्रस्य पानाय तदर्थमित्यर्थः ॥ ८ ॥