मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६५, ऋक् १२

संहिता

अ॒या चि॒त्तो वि॒पानया॒ हरि॑ः पवस्व॒ धार॑या ।
युजं॒ वाजे॑षु चोदय ॥

पदपाठः

अ॒या । चि॒त्तः । वि॒पा । अ॒नया॑ । हरिः॑ । प॒व॒स्व॒ । धार॑या ।
युज॑म् । वाजे॑षु । चो॒द॒य॒ ॥

सायणभाष्यम्

हे पवमान अया अयपयगतौ कर्मार्थमितस्ततोगच्छन्तीभिरनया विपा विपप्रेरणे । हवींषि अग्नौ प्रेरयन्तीति विपोंगुलयः एकवचनं छान्दसं प्रत्येकविवक्षया वा । एताभिर्म- दीयाभिरंगुलिभिश्चित्तो ज्ञातः निर्गतोभिषुतोहरिर्हरितवर्णस्त्वं धारया सन्ततया पवस्व द्रोणकशं ग्रहांश्चागच्छ त्वम् । किंच युजं सखायमिन्द्रं वाजेषु संग्रामेषु चोदय प्रेरय । यदा अस्माभिरिन्द्रार्थं सोमोदीयते तदा तत्पानेन हृष्टःसन् शत्रून् हन्तीत्यर्थः ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः