मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६५, ऋक् १५

संहिता

यस्य॑ ते॒ मद्यं॒ रसं॑ ती॒व्रं दु॒हन्त्यद्रि॑भिः ।
स प॑वस्वाभिमाति॒हा ॥

पदपाठः

यस्य॑ । ते॒ । मद्य॑म् । रस॑म् । ती॒व्रम् । दु॒हन्ति॑ । अद्रि॑ऽभिः ।
सः । प॒व॒स्व॒ । अ॒भि॒मा॒ति॒ऽहा ॥

सायणभाष्यम्

हे सोम यस्य ते तव मद्यं मदकरं तीव्रं क्षिप्रं मदकारिणं रसं अद्रिभिर्ग्रावभिरध्वर्वा- दयोदुहन्ति आभिषुण्वन्ति । सतादृशस्त्वं अभिमातिहा अभितोमातिरभिमानं येषां ते शत्रवः पापरूपाणां हन्ता सन् पवस्व स्र्वतोगच्छ । येंभिषुण्वन्ति ते पापरहिताः सुकृतिनो- भवन्तीत्यर्थः ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः