मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६५, ऋक् २०

संहिता

अ॒प्सा इन्द्रा॑य वा॒यवे॒ वरु॑णाय म॒रुद्भ्य॑ः ।
सोमो॑ अर्षति॒ विष्ण॑वे ॥

पदपाठः

अ॒प्साः । इन्द्रा॑य । वा॒यवे॑ । वरु॑णाय । म॒रुत्ऽभ्यः॑ ।
सोमः॑ । अ॒र्ष॒ति॒ । विष्ण॑वे ॥

सायणभाष्यम्

अप्साः वसतीवरीनामधेयानामपां संभक्ता । वनषणसंभक्तौ जनसनेतिविट् विड्वनोरि त्यात्वम् । तादृशः सोमः अर्षति द्रोणकलशमागच्छति । किमर्थं इन्द्राय सर्वदेवानां प्रथमएव इन्द्रः सोमं पिबति तस्मात्पूर्वमेवाभिहितः तस्मै वायवे तत्सहायायच ऎन्द्रवायवे हि इन्द्र- स्यानन्तरं वायुः सोमं पिबति तस्मात्तदनु वायुरुक्तः तस्मैच वरुणाय मरुद्भ्योमितं शब्दं कुर्वद्भ्यः एतन्नामकेभ्योदेवेभ्यः विष्णवे सर्वजगद्भापिने विष्णवेच एतेषां पातुं सोमः स्रव- तीत्यर्थः ॥ २० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः