मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६६, ऋक् १२

संहिता

अच्छा॑ समु॒द्रमिन्द॒वोऽस्तं॒ गावो॒ न धे॒नवः॑ ।
अग्म॑न्नृ॒तस्य॒ योनि॒मा ॥

पदपाठः

अच्छ॑ । स॒मु॒द्रम् । इन्द॑वः । अस्त॑म् । गावः॑ । न । धे॒नवः॑ ।
अग्म॑न् । ऋ॒तस्य॑ । योनि॑म् । आ ॥

सायणभाष्यम्

इन्दवः क्षरन्तः सोमाः समुद्रं सोमानामेकत्रैव संगमनस्थानं द्रोणकलशमभिगच्छन्ति । तत्रदृष्टान्तः—धेनवः पयःप्रदानेन जनानां प्रीणयित्र्योनवप्रसूतिकागावः अस्तं गृहं यथाभिग- च्छन्ति तद्वत् । किंच ते सोमाः ऋतस्य सत्यभूतस्य यज्ञस्य योनिं स्थानमाग्मन् आभि- मुख्येनगच्छन्ति । गमेर्लुङि सिचोलुकि उपधालोपः ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः