मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६६, ऋक् १४

संहिता

अस्य॑ ते स॒ख्ये व॒यमिय॑क्षन्त॒स्त्वोत॑यः ।
इन्दो॑ सखि॒त्वमु॑श्मसि ॥

पदपाठः

अस्य॑ । ते॒ । स॒ख्ये । व॒यम् । इय॑क्षन्तः । त्वाऽऊ॑तयः ।
इन्दो॒ इति॑ । स॒खि॒ऽत्वम् । उ॒श्म॒सि॒ ॥

सायणभाष्यम्

हे इन्दो पवमान इयक्षन्तो यष्टुमिच्छन्तो पूजयितुमिच्छन्तोवा अस्य प्रसिद्धस्य ते तव सख्ये सखिकर्मणि स्थितावयं त्वोतयः त्वदायत्तरक्षणाःसन्तः सखित्वं सखिभावमेव उश्मसि उश्मः कामयामहे ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः