मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६६, ऋक् १९

संहिता

अग्न॒ आयूं॑षि पवस॒ आ सु॒वोर्ज॒मिषं॑ च नः ।
आ॒रे बा॑धस्व दु॒च्छुना॑म् ॥

पदपाठः

अग्ने॑ । आयूं॑षि । प॒व॒से॒ । आ । सु॒व॒ । ऊर्ज॑म् । इष॑म् । च॒ । नः॒ ।
आ॒रे । बा॒ध॒स्व॒ । दु॒च्छुना॑म् ॥

सायणभाष्यम्

हे अग्ने पवमानरूप त्वमस्माकं आयूंषि जीवनानि पवसे रक्षसि । नोस्माकमूर्जमन्नरसं इषमन्नंवा सुव आभिमुख्येन प्रेरय । किंच दुच्छुनां रक्षोनामैतत् रक्षांसि आरे अस्मत्तोदूरे एव बाधस्व संपीडय ॥ १९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०