मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६६, ऋक् २०

संहिता

अ॒ग्निरृषि॒ः पव॑मान॒ः पाञ्च॑जन्यः पु॒रोहि॑तः ।
तमी॑महे महाग॒यम् ॥

पदपाठः

अ॒ग्निः । ऋषिः॑ । पव॑मानः । पाञ्च॑ऽजन्यः । पु॒रःऽहि॑तः ।
तम् । ई॒म॒हे॒ । म॒हा॒ऽग॒यम् ॥

सायणभाष्यम्

पांचजन्यः निषादपंचमाश्चत्वारोवर्णाः पंचजनाः । यद्वा गन्धर्वाः पितरो देवा असुरा र- क्षांसीत्येते पंचजनाः । अथवा देवमनुष्यागंधर्वाप्सरसः सर्पाः पितरइति ब्राह्मणेभिहिताः पंच- जनाः । गभीराञ् ञ्यइत्यत्र बहिर्देवपंचजनेभ्यइति वक्तव्यमिति वचनात् भवार्थेञ्यः प्रत्ययः तेषां तत्तदभीष्टदानेन स्वबूतऋषिः सर्वद्रष्टा पवमानस्त्द्रूपोग्निः पुरोहितः कर्मार्थमृत्विभिः पुरोनिहीतः तंपूर्वोक्तलक्षणं महागयं महद्भिर्देवादिभिरपि गीर्भिर्गातव्यं महान्तिप्रभूतानि यज्ञगृहाणि वा यस्य सतथोक्तः तं पवमानगुणविशिष्टमग्निमीमहे धनादीनि याचामहे ॥ २० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०