मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६६, ऋक् २९

संहिता

ए॒ष सोमो॒ अधि॑ त्व॒चि गवां॑ क्रीळ॒त्यद्रि॑भिः ।
इन्द्रं॒ मदा॑य॒ जोहु॑वत् ॥

पदपाठः

ए॒षः । सोमः॑ । अधि॑ । त्व॒चि । गवा॑म् । क्री॒ळ॒ति॒ । अद्रि॑ऽभिः ।
इन्द्र॑म् । मदा॑य । जोहु॑वत् ॥

सायणभाष्यम्

एषः अंशुरूपः सोमः गवां त्वचि आनडुहे चर्मणि अधिशब्दउपर्यर्थद्योतकः चर्मण्युपरि अद्रिभिर्ग्रावभिःसह क्रीळति अभिषवाय संक्रीडते । इन्द्रं परमेश्वरं मदाय मदार्थं जोहुवत् आह्वानं क्रुतवान् । एतेन तत्काले इन्द्रविषयां स्तुतिं करोतीत्यवगम्यते ॥ २९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२