अ॒यं सोमः॑ कप॒र्दिने॑ घृ॒तं न प॑वते॒ मधु॑ ।
आ भ॑क्षत्क॒न्या॑सु नः ॥
अ॒यम् । सोमः॑ । क॒प॒र्दिने॑ । घृ॒तम् । न । प॒व॒ते॒ । मधु॑ ।
आ । भ॒क्ष॒त् । क॒न्या॑सु । नः॒ ॥
कपर्दिने कल्याणमुकुटवते सोमाय पूष्णेवा तदर्थमयं मादयिताभिषुतोस्मदीयः सोमः पवते च गच्छति तं प्राप्नोति । तत्रदृष्टान्तः—घृतंन मधु मादकं हवीरूपं घृतं यथा सोमं पूषणं वा ग- च्छति तद्वत् । ततः सकन्यास्वस्मानागमयत् ॥ ११ ॥