अ॒यं त॑ आघृणे सु॒तो घृ॒तं न प॑वते॒ शुचि॑ ।
आ भ॑क्षत्क॒न्या॑सु नः ॥
अ॒यम् । ते॒ । आ॒घृ॒णे॒ । सु॒तः । घृ॒तम् । न । प॒व॒ते॒ । शुचि॑ ।
आ । भ॒क्ष॒त् । क॒न्या॑सु । नः॒ ॥
हे आघृणे घृक्षरणदीप्त्योः सर्वतोदीप्यमान पवमान पूषन् वा ते त्वदर्थं सुतोभिषुतोयं सो- मः पवते त्वदभिमुखमागच्छति । यद्वा त्वदर्थं पात्रेषु प्वित्रेण पूतो भवति क्षरतिवा । तत्रदृष्टा- न्तः—घृतंन शुचि शुद्धं घृतं यथा त्वां प्राप्नोति तद्वत् ततस्त्वमभिलषितानि अस्माकं देहीति ॥ १२ ॥