मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६७, ऋक् १३

संहिता

वा॒चो ज॒न्तुः क॑वी॒नां पव॑स्व सोम॒ धार॑या ।
दे॒वेषु॑ रत्न॒धा अ॑सि ॥

पदपाठः

वा॒चः । ज॒न्तुः । क॒वी॒नाम् । पव॑स्व । सो॒म॒ । धार॑या ।
दे॒वेषु॑ । र॒त्न॒ऽधाः । अ॒सि॒ ॥

सायणभाष्यम्

हे सोम कवीनां क्रन्तप्रज्ञानां स्तोतॄणां वाचोजन्तुः स्तुतेर्जनयिता । यद्वा मेधाविनां मध्ये वाचं जनयसि । अत्यन्तं वाग्मी त्वं धारया पवस्व द्रोणकलशं ग्रहांश्च प्राप्नुहि । ततः इन्द्रादिदे- वेषु रत्नधाः रमणशीलस्य सोमस्य निधातासि भवसि । अथवा देवेषु स्तोत्रकारिषु कर्मकुर्वाणेषु वास्मासु रत्नस्य क्नकादेर्दाता भवसि ॥ १३ ॥ ग्रावस्तोत्रेगाणगारिमतेनाभिरूपकरणे कलशेषु सोमे आसिच्यमाने वक्तव्यस्य तृचस्य आ- कलशेष्वित्यादिके द्वितीयातृतीये । सूत्रितंच—आकलशेषुधावतिश्येनोवर्मविगाहतेइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५