मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६७, ऋक् १४

संहिता

आ क॒लशे॑षु धावति श्ये॒नो वर्म॒ वि गा॑हते ।
अ॒भि द्रोणा॒ कनि॑क्रदत् ॥

पदपाठः

आ । क॒लशे॑षु । धा॒व॒ति॒ । श्ये॒नः । वर्म॑ । वि । गा॒ह॒ते॒ ।
अ॒भि । द्रोणा॑ । कनि॑क्रदत् ॥

सायणभाष्यम्

ऋत्विग्भिरभिषिच्यमानः कश्चित्सोमः कलशेषु सोमाधारषु द्रोणकलशेषु आधावति सर्व- तोगच्छति श्येनः लुप्तोपममेतत् । यथा श्येनोवर्म वरणीयं कुलायं विगाहते प्रविशति तद्वत् । कनिक्रदत् अत्यन्तं शब्दं कुर्वन् द्रोणा द्रोणकलशानभिगच्छतिच । यद्वा द्रोणाधवनीयपूतभृत् संज्ञकाभिप्रायं एकः सिच्यमानः सोमोद्रोणं प्रति शब्दायमानः पश्चात् प्रथमंगच्छति । ततः पात्रद्वयमिति ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५