मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६७, ऋक् १७

संहिता

असृ॑ग्रन्दे॒ववी॑तये वाज॒यन्तो॒ रथा॑ इव ॥

पदपाठः

असृ॑ग्रन् । दे॒वऽवी॑तये । वा॒ज॒ऽयन्तः॑ । रथाः॑ऽइव ॥

सायणभाष्यम्

एतेणोषुताः सोमाः वाजयन्तः सन्तः देववीतये देवानांपानाय असृग्रन् विसृज्यंते ऋ- त्विग्भिः प्रदीयन्ते । तत्रदृष्टान्तः—रथाइव वाजयन्तः शत्रुधनानि बलानिवा स्वामिनइच्छन्तो रथा देववीतये देवानांगमनाय यथा विसृज्यन्ते तद्वत् ॥ १७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६