मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६७, ऋक् २२

संहिता

पव॑मान॒ः सो अ॒द्य नः॑ प॒वित्रे॑ण॒ विच॑र्षणिः ।
यः पो॒ता स पु॑नातु नः ॥

पदपाठः

पव॑मानः । सः । अ॒द्य । नः॒ । प॒वित्रे॑ण । विऽच॑र्षणिः ।
यः । पो॒ता । सः । पु॒ना॒तु॒ । नः॒ ॥

सायणभाष्यम्

सतादृशः प्रसिद्धोविचर्षणिः सर्वस्यद्रष्टा पवमानः अद्येदानीमेव पवितेण पापशोधकेन तेज- सा यःपोता स्वयं पवित्रःसन् सनोस्मान् पुनातु पापरहितान् करोतु ॥ २२ ॥ पवित्रेष्ट्यां प्रथमाज्यभागस्य याज्या यत्तेपवित्रमित्येषा । सूत्रितंच—यत्तेपवित्रमर्चिष्या- कलशेषुधावतीति पवित्रइत्येकइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७