मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६८, ऋक् ९

संहिता

अ॒यं दि॒व इ॑यर्ति॒ विश्व॒मा रज॒ः सोमः॑ पुना॒नः क॒लशे॑षु सीदति ।
अ॒द्भिर्गोभि॑र्मृज्यते॒ अद्रि॑भिः सु॒तः पु॑ना॒न इन्दु॒र्वरि॑वो विदत्प्रि॒यम् ॥

पदपाठः

अ॒यम् । दि॒वः । इ॒य॒र्ति॒ । विश्व॑म् । आ । रजः॑ । सोमः॑ । पु॒ना॒नः । क॒लशे॑षु । सी॒द॒ति॒ ।
अ॒त्ऽभिः । गोभिः॑ । मृ॒ज्य॒ते॒ । अद्रि॑ऽभिः । सु॒तः । पु॒ना॒नः । इन्दुः॑ । वरि॑वः । वि॒द॒त् । प्रि॒यम् ॥

सायणभाष्यम्

अयंसोमो दिवोद्युलोकाद्विश्वं रजउदकनामैतत् सर्वमुदकमियर्ति अभिप्रापयति । किंच पु- नानः दशापवित्रेण पूयमानः सोमः कलशेषु द्रोणनामसु सीदति । तथा अद्रिभिर्ग्रावभिः अद्भि- र्वसतीवर्याख्याभिर्गोभिर्गोविकारैः क्षीरदध्यादिभिश्च मृज्यते शोध्यते अलंक्रियते । ततः सुतो- भिषुतः पुनानः पूतइन्दुः सोमः प्रियं प्रियतरं प्रीणनकारिवा वरिवोवरणीयं धनं विदत् स्तोतृ- भ्योलंभयति प्रयच्छतीतियावत् ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०