मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६९, ऋक् ३

संहिता

अव्ये॑ वधू॒युः प॑वते॒ परि॑ त्व॒चि श्र॑थ्नी॒ते न॒प्तीरदि॑तेरृ॒तं य॒ते ।
हरि॑रक्रान्यज॒तः सं॑य॒तो मदो॑ नृ॒म्णा शिशा॑नो महि॒षो न शो॑भते ॥

पदपाठः

अव्ये॑ । व॒धू॒ऽयुः । प॒व॒ते॒ । परि॑ । त्व॒चि । श्र॒थ्नी॒ते । न॒प्तीः । अदि॑तेः । ऋ॒तम् । य॒ते ।
हरिः॑ । अ॒क्रा॒न् । य॒ज॒तः । स॒म्ऽय॒तः । मदः॑ । नृ॒म्णा । शिशा॑नः । म॒हि॒षः । न । शो॒भ॒ते॒ ॥

सायणभाष्यम्

वधूयुः वधूभूता वसतीवर्यएकनासहिताआपः तद्वान् सोमः अव्ये अवेः स्वभूते त्वचे चर्मणि परिपवते परितोवर्तते पूतोभवतिवा किंच नप्तीः नप्त्नीः नप्तृशब्दश्चतुर्थापत्यवाची सोमस्य न्प्त्नीः सोमोह्योषधीनामग्नेरेतोनिषिंचति । प्रजापतेरेतोदेवादेवानांरेतोवर्षंवर्षस्यरेत- ओषधयः इतिश्रुतेः । यद्वा नप्तृशब्दोपत्यवाची तस्यापत्यानि सोमः सुधामयैः स्वकिरणैरो- षधीर्वर्धयति तस्मादपत्यभूताअदितेः पृथिवीनामैतत् अदीनायाः पृथिव्याउत्पन्नाओषधीः ऋतं सत्यरूपं यज्ञं यते गच्छति यजमानाय श्रश्नीते अग्रभागे फलिनीः कर्तुं विश्लेषयति । किंच हरिर्हरितवर्णः यजतः सर्वैर्यष्टव्यः अतएव संयतः ग्रहादिषु संगृहीतोमदः माद्यत्यनेनेतिमदः सोमः तादृशः अक्रानक्रामति पात्रेष्ववतिष्ठते यद्वा शत्रूनतिक्रामति क्रमेर्लुङि तिपि बहुलं- छन्दसीति इडागमाभावात् वृद्धौक्रुतायां सिज्लोपेसति हल् ङ्यादिना तिपोलोपे मोनोधा- तोरिति नत्वेकृतेरूपम् । अतएव सोमः नृम्णा स्वबलानि शिशानः तीक्ष्णीकुर्वन् अथवा शत्रु- बलानि तनूकुर्वन् महिषोन महन्नामैतत् महानिव सर्वत्रव्याप्तइव शोभते स्वतेजसा सर्वत्र दीप्यते । यद्वा नः संप्रत्यर्थे इदानीमेवंगुणयुक्तः महान् सोमः शोभतइति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१