मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६९, ऋक् ५

संहिता

अमृ॑क्तेन॒ रुश॑ता॒ वास॑सा॒ हरि॒रम॑र्त्यो निर्णिजा॒नः परि॑ व्यत ।
दि॒वस्पृ॒ष्ठं ब॒र्हणा॑ नि॒र्णिजे॑ कृतोप॒स्तर॑णं च॒म्वो॑र्नभ॒स्मय॑म् ॥

पदपाठः

अमृ॑क्तेन । रुश॑ता । वास॑सा । हरिः॑ । अम॑र्त्यः । निः॒ऽनि॒जा॒नः । परि॑ । व्य॒त॒ ।
दि॒वः । पृ॒ष्ठम् । ब॒र्हणा॑ । निः॒ऽनिजे॑ । कृ॒त॒ । उ॒प॒ऽस्तर॑णम् । च॒म्वोः॑ । न॒भ॒स्मय॑म् ॥

सायणभाष्यम्

अमर्त्यो मनुष्यधर्मरहितो हरिर्हरितवर्णः सोमः निर्णिजानः उदकेन शोध्यमानःसन् अमृक्तेन । मृजीशौचालंकारयोः । अनिर्णिक्तेनापि रुशता स्वतः शुक्लवर्णेन पयोरूपेण वास- सा परिव्यत परित आच्छादयति । सोमेपरिपूते गव्येन पयसा मिश्रीकुर्वन्ति खलु । तदु- च्यते ततः सोयंसोमः दिवोद्युलोकस्य पृष्ठं पृष्ठभागेतिष्ठन्तमादित्यं बर्हणा बर्हणाय पापा- नामुद्यमनकारिणे पापनाशिने निर्निजे निर्निजनाय परिपवनाय कृत द्युलोके अकार्षीत् । सहि स्वदीप्त्या सर्वंनिर्णेक्ति । कृत कृणोतेर्लुङि ह्रस्वादिति सिचोलोपः । तदेवाह चम्वोः द्यावापृथिवीनामैतत् चमन्ति भक्षयन्ति अत्रदेवामनुष्याइति तयोरुपस्तरणं आच्छादनशीलं नभस्मयमादित्यमयं आदित्यस्य स्वभूतं तेजश्च सर्वेषां निर्णेजनायाकार्षीत् ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१