मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ७०, ऋक् ८

संहिता

शुचि॑ः पुना॒नस्त॒न्व॑मरे॒पस॒मव्ये॒ हरि॒र्न्य॑धाविष्ट॒ सान॑वि ।
जुष्टो॑ मि॒त्राय॒ वरु॑णाय वा॒यवे॑ त्रि॒धातु॒ मधु॑ क्रियते सु॒कर्म॑भिः ॥

पदपाठः

शुचिः॑ । पु॒ना॒नः । त॒न्व॑म् । अ॒रे॒पस॑म् । अव्ये॑ । हरिः॑ । नि । अ॒धा॒वि॒ष्ट॒ । सान॑वि ।
जुष्टः॑ । मि॒त्राय॑ । वरु॑णाय । वा॒यवे॑ । त्रि॒ऽधातु॑ । मधु॑ । क्रि॒य॒ते॒ । सु॒कर्म॑ऽभिः ॥

सायणभाष्यम्

अरेपसं पापरहितम् । यद्वा रिपिगतौ गतिरहितं पात्रेस्थितं इत्यर्थः तादृशं तन्वंआत्मी- यं शरीरं पुनानः शोधयन् अतएव शुचिः पूतः दीप्यमानोवा हरिः हरितवर्णःसोमः सा- नवि सानुनि समुच्छ्रितः अव्ये अविवालकृते दशापवित्रे न्यधाविष्ट ऋत्विग्भिर्निधीयते । धूञ् कंपने स्यसिच् सीयुट् तासिष्विति कर्मणिलुङि चिण्वदिटियण् णित्वाद्वृद्धिः । ततः मित्राय वरुणाय वायवे एतेभ्योजुष्टः पर्याप्तः त्रिधातु त्रिसंधानः । वसतीवरीभिः दध्ना पय सा संस्पृष्टः सोमः त्रिधातु तादृशं मधु मदकरः सोमः सुकर्मभिः शोभनकर्मयुक्तैरृत्विक् भिः क्रियते मित्रादिदेवार्थं प्रदीयते ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४