मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ७१, ऋक् ३

संहिता

अद्रि॑भिः सु॒तः प॑वते॒ गभ॑स्त्योर्वृषा॒यते॒ नभ॑सा॒ वेप॑ते म॒ती ।
स मो॑दते॒ नस॑ते॒ साध॑ते गि॒रा ने॑नि॒क्ते अ॒प्सु यज॑ते॒ परी॑मणि ॥

पदपाठः

अद्रि॑ऽभिः । सु॒तः । प॒व॒ते॒ । गभ॑स्त्योः । वृ॒ष॒ऽयते॑ । नभ॑सा । वेप॑ते । म॒ती ।
सः । मो॒द॒ते॒ । नस॑ते । साध॑ते । गि॒रा । ने॒नि॒क्ते । अ॒प्ऽसु । यज॑ते । परी॑मणि ॥

सायणभाष्यम्

अद्रिभिर्ग्रावभिः गभ्स्त्योर्बाह्वोः बाहुभ्यांच सुतोभिषुतः ससोमः पवते पात्राणि प्र- तिगच्छति । यःसोमः वृषायते वृषवदाचरति । किंच योमती मत्या स्तुत्याभिष्टुतःसन् नभ सान्तरिक्षेण वेपते सर्वत्र गच्छति ससोमः मोदते हृष्टोभवति । तथा नसते ग्रहादिषु सं- श्लिष्टोभवति । किंच गिरा स्तुत्या स्तुतः सन् । साधते स्तोतॄणां धनादिकं साधयति । अपिच अप्सु वसतीवर्याख्यासु नेनिक्ते शुद्धोभवति तथा परीमणि देवैरक्ष्यमाणे यज्ञे देवा नां हविः प्रदानेन पोषके वा यज्ञे यजते पूजितोभवति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५