मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ७१, ऋक् ५

संहिता

समी॒ रथं॒ न भु॒रिजो॑रहेषत॒ दश॒ स्वसा॑रो॒ अदि॑तेरु॒पस्थ॒ आ ।
जिगा॒दुप॑ ज्रयति॒ गोर॑पी॒च्यं॑ प॒दं यद॑स्य म॒तुथा॒ अजी॑जनन् ॥

पदपाठः

सम् । ई॒मिति॑ । रथ॑म् । न । भु॒रिजोः॑ । अ॒हे॒ष॒त॒ । दश॑ । स्वसा॑रः । अदि॑तेः । उ॒पऽस्थे॑ । आ ।
जिगा॑त् । उप॑ । ज्र॒य॒ति॒ । गोः । अ॒पी॒च्य॑म् । प॒दम् । यत् । अ॒स्य॒ । म॒तुथाः॑ । अजी॑जनन् ॥

सायणभाष्यम्

भुरिजोर्बाहुनामैतत् । बिभ्रति पदार्थानाभ्यामिति । तयोर्बाह्वोः दश दशसंख्याकाः स्वसारः सर्वत्र सरणशीलाः अंगुलयः अदितेर्भूमेरुपस्थे समीपे देवयजनदेशे ईमेनं सोम माभिमुख्येन समहेषत संप्रेरयन्ति । हिवर्धनगत्योः लुङिरूपम् । कथमिव रथंन रथं यथां गुलयः प्रेरयंति तद्वत् ससोमः जिगात् पात्राणि गच्छति । किंच गोर्धेनोरपीच्यमन्तर्हितं पय उपज्रयति तदानीं उपगच्छति यद्यदा मतुथा मननीयगाथावन्तः स्तोतारः अस्य सोमस्य पदं स्थानं अजीजनन् जनयन्ति तदानीमित्यर्थः ॥ ५ ॥ अभिष्टवे श्येनोनयोनिमित्येषा । सूत्रितंच—संप्रेषितः श्येनोनयोनिंसदनंधियाकृतमिति । अग्नीषोमप्रनयनेप्येषा । सूत्रितंच—अन्तश्चप्रागाअदितिर्भवासि श्येनोनयोनिंसदनंधियाकृत मिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५