मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ७२, ऋक् १

संहिता

हरिं॑ मृजन्त्यरु॒षो न यु॑ज्यते॒ सं धे॒नुभि॑ः क॒लशे॒ सोमो॑ अज्यते ।
उद्वाच॑मी॒रय॑ति हि॒न्वते॑ म॒ती पु॑रुष्टु॒तस्य॒ कति॑ चित्परि॒प्रियः॑ ॥

पदपाठः

हरि॑म् । मृ॒ज॒न्ति॒ । अ॒रु॒षः । न । यु॒ज्य॒ते॒ । सम् । धे॒नुऽभिः॑ । क॒लशे॑ । सोमः॑ । अ॒ज्य॒ते॒ ।
उत् । वाच॑म् । ई॒रय॑ति । हि॒न्वते॑ । म॒ती । पु॒रु॒ऽस्तु॒तस्य॑ । कति॑ । चि॒त् । प॒रि॒ऽप्रियः॑ ॥

सायणभाष्यम्

हरिं हरितवर्णं सोमं ऋत्विजोमृजन्ति मार्जयन्ति । मृजेरजादौ संक्रमे विभाषा वृद्धि- रिष्यतइति तत्रवृद्धेरभावः । सोयमरुषोन अर्तेरुषत् प्रत्ययः गमनशीलोश्वइव युज्यते इन्द्रा दिभिः संयुज्यते । किंच कलशे कलशोद्रोणाभिधानः स्थितः सोमः धेनुभिः गोविकारैः दध्यादिभिः समज्यते समक्तः सिक्तोभवति । अपिच सोमोयदा वाचंशब्दमुदीरयति उद्ग मयति शब्दं करोतीत्यर्थः तदा स्तोता रश्च मती सुपां सुलुगिति द्वितीयायाःपूर्वसवर्ण- दीर्घः स्तुतिं हिन्वते प्रेरयन्ति हिगतौ वृद्धौचेति स्वादिः आत्मनेपदी ततः स्तोत्राभिष्टुतः सपुरुष्टुतस्य बहुस्तोत्रयुक्तस्य स्तोतुः परिप्रियः प्रीङ् तर्पणे क्विप् शसि इयङादेशःकृदुत्तर- पदप्रकृतिस्वरत्वं परितः प्रीणयितॄणि कतिचित् कियन्ति धनानि प्रयच्छन्ति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७