मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ७२, ऋक् २

संहिता

सा॒कं व॑दन्ति ब॒हवो॑ मनी॒षिण॒ इन्द्र॑स्य॒ सोमं॑ ज॒ठरे॒ यदा॑दु॒हुः ।
यदी॑ मृ॒जन्ति॒ सुग॑भस्तयो॒ नर॒ः सनी॑ळाभिर्द॒शभि॒ः काम्यं॒ मधु॑ ॥

पदपाठः

सा॒कम् । व॒द॒न्ति॒ । ब॒हवः॑ । म॒नी॒षिणः॑ । इन्द्र॑स्य । सोम॑म् । ज॒ठरे॑ । यत् । आ॒ऽदु॒हुः ।
यदि॑ । मृ॒जन्ति॑ । सुऽग॑भस्तयः । नरः॑ । सऽनी॑ळाभिः । द॒शऽभिः॑ । काम्य॑म् । मधु॑ ॥

सायणभाष्यम्

मनीषिणः मनसईशितारः प्राज्ञा बहवःस्तोतारः साकं सहैव युगपत् मंत्रान् वदन्ति तदा स्तुवन्ति यदा इन्द्रस्य जठरे द्रोणकलशे सोममादुहुः ऋत्विजोदुदुहुः तदाभिष्टुवन्ती- ति । दुहेर्लिटि उसि रूपम् । द्विर्वचनस्यछन्दसि विकल्पितत्वादत्रद्विर्वचनाभावः । किंच यदि यदा सुगभस्तयः शोभनबाहुकानरः कर्मनेतारोमनुष्याः काम्यं काम्यमानं मधु मदकरं सोमं सनीळाभिर्दशभिः दशसंख्याकाभिरंगुलीभिर्मृजन्ति सोममभिषुण्वन्ति तदा वदन्ती- त्यन्वयः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७