मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ७२, ऋक् ३

संहिता

अर॑ममाणो॒ अत्ये॑ति॒ गा अ॒भि सूर्य॑स्य प्रि॒यं दु॑हि॒तुस्ति॒रो रव॑म् ।
अन्व॑स्मै॒ जोष॑मभरद्विनंगृ॒सः सं द्व॒यीभि॒ः स्वसृ॑भिः क्षेति जा॒मिभि॑ः ॥

पदपाठः

अर॑ममाणः । अति॑ । ए॒ति॒ । गाः । अ॒भि । सूर्य॑स्य । प्रि॒यम् । दु॒हि॒तुः । ति॒रः । रव॑म् ।
अनु॑ । अ॒स्मै॒ । जोष॑म् । अ॒भ॒र॒त् । वि॒न॒म्ऽगृ॒सः । सम् । द्व॒यीभिः॑ । स्वसृ॑ऽभिः । क्षे॒ति॒ । जा॒मिऽभिः॑ ॥

सायणभाष्यम्

ससोमः अरममाणः अनुपरतःसन् पुनःपुनः देवानांप्रीणनाय ग्रहादीनि प्रविशन्नित्यर्थः । गा गोविकारानाश्रयणानभिलक्ष्य अत्येति अतिक्रम्य गच्छति । ततः शब्दायमानाः सोमः सूर्यस्यादित्यस्य दुहितुरुषसः प्रियं रवं शब्दं तिरः तिरस्करोति । तस्मिन् काले सोमाभि- षवध्वनिर्महान् भवतीत्यर्थः । विनंगृसः विनं कमनीयं स्तोत्रं गृःह्णातीतिविनंगृसः स्तोता जोषं जुषेर्घञिरूपम् । पर्याप्तं स्तोत्रं तस्मै सोमाय अन्वभरत् अनुभरति । करोतीतियावत् । सोयंसोमः द्वयीभिः द्वाभ्यांपाणिभ्यामुत्पन्नाभिः जामिभिः परस्परंबन्धुभिः स्वसृभिः कर्म करणार्थमितस्ततोगच्छन्तीभिरंगुलिभिः संक्षेति संगच्छते क्षिनिवासगत्योः छान्दसोविकरण- स्य लुक् ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७