मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ७२, ऋक् ४

संहिता

नृधू॑तो॒ अद्रि॑षुतो ब॒र्हिषि॑ प्रि॒यः पति॒र्गवां॑ प्र॒दिव॒ इन्दु॑रृ॒त्वियः॑ ।
पुरं॑धिवा॒न्मनु॑षो यज्ञ॒साध॑न॒ः शुचि॑र्धि॒या प॑वते॒ सोम॑ इन्द्र ते ॥

पदपाठः

नृऽधू॑तः । अद्रि॑ऽसुतः । ब॒र्हिषि॑ । प्रि॒यः । पतिः॑ । गवा॑म् । प्र॒ऽदिवः॑ । इन्दुः॑ । ऋ॒त्वियः॑ ।
पुर॑न्धिऽवान् । मनु॑षः । य॒ज्ञ॒ऽसाध॑नः । शुचिः॑ । धि॒या । प॒व॒ते॒ । सोमः॑ । इ॒न्द्र॒ । ते॒ ॥

सायणभाष्यम्

हे इन्द्र पवमानगुणविशिष्टेन्द्र ते त्वदर्थं बर्हिषि यज्ञे अयं सोमः धिया स्वेनकर्मणा धारया वा पवते पात्रेषु स्यन्दते । कीदृशः नृधूतः कर्मनेतृभिर्मनुष्यैः शोधितः अद्रिषुतः तथा ग्रावभिरभिषुतः प्रियः देवानां प्रीणयिता गवांपतिः स्वामी इन्द्रोगा अलभत । तस्माद्नवांस्वामी । प्रदिवः पुराणनामैतत् पुराणः इन्दुः पात्रेषु क्षरन् ऋत्वियः ऋतौजातः ऋतोरण् छन्दसिघसितिघसः सित्वेन पदसंज्ञायां भसंज्ञानिमित्तओर्गुणोनभवति । पुरंधि- वान् पुरंधिर्बहुधीरितियास्कः । बहुकर्मवान् मनुषोमनुष्यस्य यज्ञसाधनः शुचिर्दीप्यमानः यद्वा दशापवित्रेण शुद्धः एवंगुणः सोमः इन्द्रार्थं पवते इतिसंबन्धः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७