मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ७२, ऋक् ५

संहिता

नृबा॒हुभ्यां॑ चोदि॒तो धार॑या सु॒तो॑ऽनुष्व॒धं प॑वते॒ सोम॑ इन्द्र ते ।
आप्रा॒ः क्रतू॒न्त्सम॑जैरध्व॒रे म॒तीर्वेर्न द्रु॒षच्च॒म्वो॒३॒॑रास॑द॒द्धरि॑ः ॥

पदपाठः

नृ॒बा॒हुऽभ्या॑म् । चो॒दि॒तः । धार॑या । सु॒तः । अ॒नु॒ऽस्व॒धम् । प॒व॒ते॒ । सोमः॑ । इ॒न्द्र॒ । ते॒ ।
आ । अ॒प्राः॒ । क्रतू॑न् । सम् । अ॒जैः॒ । अ॒ध्व॒रे । म॒तीः । वेः । न । द्रु॒ऽसत् । च॒म्वोः॑ । आ । अ॒स॒द॒त् । हरिः॑ ॥

सायणभाष्यम्

हे इन्द्र पवमानगुणविशिष्ट नृबाहुभ्यां कर्मनेतॄणामृत्विजां बाहुभ्यां चोदितः प्रेरितः धारया सुतोभिषुतः यथा धाराभवति तथाभिषुतइत्यर्थः । तादृशः सोमः ते तवनुष्वधं बलमनु बलार्थं यद्वा स्वधेत्यन्ननाम अन्नार्थं पवते आगच्छति । ततः सत्वं सोमपानेन क्रतून् कर्माणि आप्राः आपूरयसि । किंच अध्वरे यज्ञे मतीः अभिमानान् शत्रून् समजै सम्यक् जितवानसि । जिजये । लुङि सिपि सिचोबहुलं छन्दसीतीडभावः । सिचिवृद्धिरिति वृद्धिः । सोयं हरिर्हरितवर्णः सोमः चम्वोरधिषवणफलकयोः आसददासीदति । तत्रदृष्टा- न्तः—वेर्न वीगत्यादिषु अन्येभ्योपि दृश्यतइति विच् सार्वधातुकार्धधातुकयोरितिगुणः । यथा वेः पक्षी द्रुषत् द्रुमेसीदतीति तद्वत् द्रुषदिति पूर्वप्दादितिषत्वम् ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७