मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ७२, ऋक् ६

संहिता

अं॒शुं दु॑हन्ति स्त॒नय॑न्त॒मक्षि॑तं क॒विं क॒वयो॒ऽपसो॑ मनी॒षिणः॑ ।
समी॒ गावो॑ म॒तयो॑ यन्ति सं॒यत॑ ऋ॒तस्य॒ योना॒ सद॑ने पुन॒र्भुवः॑ ॥

पदपाठः

अं॒शुम् । दु॒ह॒न्ति॒ । स्त॒नय॑न्तम् । अक्षि॑तम् । क॒विम् । क॒वयः॑ । अ॒पसः॑ । म॒नी॒षिणः॑ ।
सम् । ई॒मिति॑ । गावः॑ । म॒तयः॑ । य॒न्ति॒ । स॒म्ऽयतः॑ । ऋ॒तस्य॑ । योना॑ । सद॑ने । पु॒नः॒ऽभुवः॑ ॥

सायणभाष्यम्

कवयः क्रान्तप्रज्ञाः अपसः कर्मवन्तः मनीषिणः मनसईशा मनीषा बुद्धिः तद्वन्तः ऋ- त्विजः स्तनयन्तं शब्दायमानं अक्षितमक्षीणं कविं क्रान्तदर्शिनं अश्रुं सोमं दुहन्ति अभिषु- ण्वन्ति । ततः पुनर्भुवः पुनर्भवनशीलाः गावः पशवः मतयोमननीयाः स्तुतयश्च संयतः पर स्परं संगताः सत्यः ऋतस्य सत्यभूतस्य यज्ञस्य योना योनौ योनिस्थानीये उत्पत्तिभूते सदने उत्तरवेद्याख्ये ईमेनं सोमं संयन्ति संगच्छन्ति ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८