मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ७२, ऋक् ७

संहिता

नाभा॑ पृथि॒व्या ध॒रुणो॑ म॒हो दि॒वो॒३॒॑ऽपामू॒र्मौ सिन्धु॑ष्व॒न्तरु॑क्षि॒तः ।
इन्द्र॑स्य॒ वज्रो॑ वृष॒भो वि॒भूव॑सु॒ः सोमो॑ हृ॒दे प॑वते॒ चारु॑ मत्स॒रः ॥

पदपाठः

नाभा॑ । पृ॒थि॒व्याः । ध॒रुणः॑ । म॒हः । दि॒वः । अ॒पाम् । ऊ॒र्मौ । सिन्धु॑षु । अ॒न्तः । उ॒क्षि॒तः ।
इन्द्र॑स्य । वज्रः॑ । वृ॒ष॒भः । वि॒भुऽव॑सुः । सोमः॑ । हृ॒दे । प॒व॒ते॒ । चारु॑ । म॒त्स॒रः ॥

सायणभाष्यम्

महोमहतो दिवोद्युलोकस्य धरुणोधारकोयं सोमः पृथिव्याः विस्तीर्णायाभूमेः नाभाना भौ नाभिस्थानीये उच्छ्रितेप्रदेशे—यदुत्तरवेदीनाभिरित्याम्नानात् । उत्तरवेदिस्थाने ऋत्वि- ग्भिः निहितः सिंधुषु स्यन्दमानासु नदीषु अपामुदकानां उर्मौ संघे अन्तर्मध्ये उक्षितः सिक्तः अन्तरिक्षस्थानमध्येवर्तमानइत्यर्थः । तादृशइन्द्रस्य वज्रोवज्रस्थानीयोवृषभः कामा- नांवर्षिता अतएव विभूवसुः व्याप्तधनः सोमः चारु कल्याणं यथाभवति तथा इन्द्रस्य मत्सरः मादयिता सन् हृदे मनसे सुखाय पवते आगच्छति ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८