आ तू न॑ इन्दो श॒तदा॒त्वश्व्यं॑ स॒हस्र॑दातु पशु॒मद्धिर॑ण्यवत् ।
उप॑ मास्व बृह॒ती रे॒वती॒रिषोऽधि॑ स्तो॒त्रस्य॑ पवमान नो गहि ॥
आ । तु । नः॒ । इ॒न्दो॒ इति॑ । श॒तऽदा॑तु । अश्व्य॑म् । स॒हस्र॑ऽदातु । प॒शु॒ऽमत् । हिर॑ण्यऽवत् ।
उप॑ । मा॒स्व॒ । बृ॒ह॒तीः । रे॒वतीः॑ । इषः॑ । अधि॑ । स्तो॒त्रस्य॑ । प॒व॒मा॒न॒ । नः॒ । ग॒हि॒ ॥
हे इन्दो पवमान नोस्मभ्यं तु क्षिप्रं धनमायच्छ । कीदृशं शतदातु दातुदानं बहुदानं अश्व्यं अश्वसहितं सहस्रदातु सहस्रदानोपेतं पशुमत् पश्वादियुक्तं हिरण्यवत् हिरण्ययुक्तं च धनं देहि । तथा हे सोम बृहतीः प्रभूतानि रेवतीर्धनवन्ति यद्वा पयसोदातारः पशवः तद्वन्ति इषोन्नानिचास्मभ्यमुपमास्व उपमिमीष्व कुर्वितियावत् । किंच हे पवमान नोस्मा कं एवंभूतस्य स्तोत्रस्य श्रवणाय अधिगहि आगच्छ । क्रियार्थोपपदस्येति चतुर्थी चतुर्थ्यर्थे बहुलंछन्दसीति षष्ठी ॥ ९ ॥
स्रक्वइति नवर्चं षष्ठंसूक्तं आंगिरसस्य पवित्रस्यार्षं जागतं पवमानसोमदेवताकं तथाचा नुक्रम्यते—स्रक्वेपवित्रइति । प्रवर्ग्येभिष्टवे एतत्सूक्तम् । सूत्रितंच—स्रक्वेद्रप्सस्यायंवेनश्चोदयत्पृ- श्निगर्भाइति ।