मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ७४, ऋक् ५

संहिता

अरा॑वीदं॒शुः सच॑मान ऊ॒र्मिणा॑ देवा॒व्यं१॒॑ मनु॑षे पिन्वति॒ त्वच॑म् ।
दधा॑ति॒ गर्भ॒मदि॑तेरु॒पस्थ॒ आ येन॑ तो॒कं च॒ तन॑यं च॒ धाम॑हे ॥

पदपाठः

अरा॑वीत् । अं॒शुः । सच॑मानः । ऊ॒र्मिणा॑ । दे॒व॒ऽअ॒व्य॑म् । मनु॑षे । पि॒न्व॒ति॒ । त्वच॑म् ।
दधा॑ति । गर्भ॑म् । अदि॑तेः । उ॒पऽस्थे॑ । आ । येन॑ । तो॒कम् । च॒ । तन॑यम् । च॒ । धाम॑हे ॥

सायणभाष्यम्

ऊर्मिणा वसतीवर्यादीनामुदकानां संघेन सचमानः ऋत्विग्भिः सेचमानः अंशुः सोमः अरावीत् शब्दं करोति । किंच ससोमः देवाव्यं अवरक्षणे अवितॄस्तृतंत्रिभ्यईरितिईप्रत्ययः । देवानां पालयित्रीं त्वचं आत्मनः शरीरं मनुषे मनुष्याय यजमानाय पिन्वति सिंचति पा- त्रेषु क्षरतीतियावत् । अपिच अदितेरदीनायाः पृथिव्याउपस्थे समीपे ओषधीषु तं गर्भमा- दधाति सुधामयैः किरणैर्विदधाति । येन गर्भेण वयं तोकं दुःखनाशकं पुत्रं च तनयं तनोति- कुलमिति तनयः पौत्रः तं च धामहे दध्महे धारयामः । दधार्तेर्लटिबहुलंछन्दसीति शपो- लुक् ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१