मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ७४, ऋक् ९

संहिता

अ॒द्भिः सो॑म पपृचा॒नस्य॑ ते॒ रसोऽव्यो॒ वारं॒ वि प॑वमान धावति ।
स मृ॒ज्यमा॑नः क॒विभि॑र्मदिन्तम॒ स्वद॒स्वेन्द्रा॑य पवमान पी॒तये॑ ॥

पदपाठः

अ॒त्ऽभिः । सो॒म॒ । प॒पृ॒चा॒नस्य॑ । ते॒ । रसः॑ । अव्यः॑ । वार॑म् । वि । प॒व॒मा॒न॒ । धा॒व॒ति॒ ।
सः । मृ॒ज्यमा॑नः । क॒विऽभिः॑ । म॒दि॒न्ऽत॒म॒ । स्वद॑स्व । इन्द्रा॑य । प॒व॒मा॒न॒ । पी॒तये॑ ॥

सायणभाष्यम्

हे पवमान पवित्रेण पूयमान हे सोम अद्भिर्वसतीवर्यादिभिरुदकैः पपृचानस्य संपृच्य- मानस्य ते तव रसोव्ययः अवेर्वारं वालं दशापवित्रं विधावति विविधं प्राप्नोति । ततः हे मदिन्तम मादयितृतम हे पवमानसोम त्वं कविभिः क्रान्तकर्मभिः ऋत्विग्भिर्मृज्यमानः पूयमानः सन् इन्द्राय पीतये इन्द्रस्य पानार्थं स्वदस्व प्रियरसोभव ॥ ९ ॥

अभिप्रियाणीतिपंचर्च अष्टमं सूक्तं भार्गवस्यकवेरार्षं जागतं पवमानसोमदेवताकम् । तथानुक्रम्यते—अभिप्रियाणिपंचकविरिति । गतोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२