मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८१, ऋक् ५

संहिता

उ॒भे द्यावा॑पृथि॒वी वि॑श्वमि॒न्वे अ॑र्य॒मा दे॒वो अदि॑तिर्विधा॒ता ।
भगो॒ नृशंस॑ उ॒र्व१॒॑न्तरि॑क्षं॒ विश्वे॑ दे॒वाः पव॑मानं जुषन्त ॥

पदपाठः

उ॒भे इति॑ । द्यावा॑पृथि॒वी इति॑ । वि॒श्व॒मि॒न्वे इति॑ वि॒श्व॒म्ऽइ॒न्वे । अ॒र्य॒मा । दे॒वः । अदि॑तिः । वि॒ऽधा॒ता ।
भगः॑ । नृऽशंसः॑ । उ॒रु । अ॒न्तरि॑क्षम् । विश्वे॑ । दे॒वाः । पव॑मानम् । जु॒ष॒न्त॒ ॥

सायणभाष्यम्

विश्वमिन्वे । इन्वतिर्व्याप्तिकर्मा । सर्वव्यापिन्यावुभेद्यावापृथिवी द्यावापृथिव्यौ अर्यमा- दयस्त्रयश्च भगश्च नृशंसोनृभिः शंसनीयः उर्वन्तरिक्षंच विश्वेदेवाश्च पवमानं पूयमानं सोमं जुषन्त सेवन्ते ॥ ५ ॥

असावीतिपंचर्चं पंचदशंसूक्तं ऋष्याद्याः पूर्ववत् । अस्यानुक्रमणिका—असावीतित्रिष्टु- बन्तइति । अनेनद्विवचनेन प्रकृतयोः प्रसोमस्येत्यादिकयोर्द्वयोरपि त्रिष्टुन्तता प्रतिपादिता । गतोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः