मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८२, ऋक् १

संहिता

असा॑वि॒ सोमो॑ अरु॒षो वृषा॒ हरी॒ राजे॑व द॒स्मो अ॒भि गा अ॑चिक्रदत् ।
पु॒ना॒नो वारं॒ पर्ये॑त्य॒व्ययं॑ श्ये॒नो न योनिं॑ घृ॒तव॑न्तमा॒सद॑म् ॥

पदपाठः

असा॑वि । सोमः॑ । अ॒रु॒षः । वृषा॑ । हरिः॑ । राजा॑ऽइव । द॒स्मः । अ॒भि । गाः । अ॒चि॒क्र॒द॒त् ।
पु॒ना॒नः । वार॑म् । परि॑ । ए॒ति॒ । अ॒व्यय॑म् । श्ये॒नः । न । योनि॑म् । घृ॒तऽव॑न्तम् । आ॒ऽसद॑म् ॥

सायणभाष्यम्

सोम । असावि अभिषुतोभूत् कीदृशः सोमः अरुष आरोचमानः वृषावर्षको हरिर्हरित वर्णः । सच राजेव दस्मोदर्शनीयः सन् गाउदकानि अभिलक्ष्य अचिक्रदच्छब्दंकरोति स्वरसनिर्मोकसमये । पश्चात्पुनानः पूयमानः अव्ययंवारं वालं दशापवित्रं पर्येति श्येनोन श्येनइव योनिं स्वकीयंस्थानं घृतवन्तमुदकवन्तं आसदं आसदनाय पवतइतिशेषः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः