मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८२, ऋक् ४

संहिता

जा॒येव॒ पत्या॒वधि॒ शेव॑ मंहसे॒ पज्रा॑या गर्भ शृणु॒हि ब्रवी॑मि ते ।
अ॒न्तर्वाणी॑षु॒ प्र च॑रा॒ सु जी॒वसे॑ऽनि॒न्द्यो वृ॒जने॑ सोम जागृहि ॥

पदपाठः

जा॒याऽइ॑व । पत्यौ॑ । अधि॑ । शेव॑ । मं॒ह॒से॒ । पज्रा॑याः । ग॒र्भ॒ । शृ॒णु॒हि । ब्रवी॑मि । ते॒ ।
अ॒न्तः । वाणी॑षु । प्र । च॒र॒ । सु । जी॒वसे॑ । अ॒नि॒न्द्यः । वृ॒जने॑ । सो॒म॒ । जा॒गृ॒हि॒ ॥

सायणभाष्यम्

जायेवपत्यौ जाया यथा स्वभार्या भर्तरि सुखंप्रयच्छति तद्वत् । शेव शेवं द्वितीयाया- आम् भावाभावश्छान्दसः सुखं मंहसे प्रयच्छसि यजमाने । हे पज्रायाः गर्भ सोम शृणुहि शृणु स्तुतीः यास्तेतुभ्यं ब्रवीमि । पजिर्गतिकर्मा । पज्रापृथिवीत्याहुः अपिवा माध्यमिकावक् पज्रा भूमावोषधिरूपेण जातत्वाद्गर्भत्वं माध्यमिकायावचोपि वृष्टिसाधनत्वात्तत्पुत्रत्वम् । सत्वं वाणीषु वाक्षु स्तुतिष्वन्तर्मध्ये सुसुष्ठु प्रचर जीवसेस्माकं जीवनाय हे सोम अनि- न्द्यः स्तुत्यस्त्वं वृजनेस्माकं शत्रुबले जागृहि बुद्धोभव ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः