मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८३, ऋक् ३

संहिता

अरू॑रुचदु॒षस॒ः पृश्नि॑रग्रि॒य उ॒क्षा बि॑भर्ति॒ भुव॑नानि वाज॒युः ।
मा॒या॒विनो॑ ममिरे अस्य मा॒यया॑ नृ॒चक्ष॑सः पि॒तरो॒ गर्भ॒मा द॑धुः ॥

पदपाठः

अरू॑रुचत् । उ॒षसः॑ । पृश्निः॑ । अ॒ग्रि॒यः । उ॒क्षा । बि॒भ॒र्ति॒ । भुव॑नानि । वा॒ज॒ऽयुः ।
मा॒या॒ऽविनः॑ । म॒मि॒रे॒ । अ॒स्य॒ । मा॒यया॑ । नृ॒ऽचक्ष॑सः । पि॒तरः॑ । गर्भ॑म् । आ । द॒धुः॒ ॥

सायणभाष्यम्

उषसःसंबन्धी पृश्निरादित्यः । पृश्निरादित्योभवतिप्राश्नुतएनंवर्णइतिनिरुक्तम् । अग्रियो मुख्यः सोयंसोमः अरूरुचत् रोचयति सउक्षा जलस्यसेक्ता बिभर्ति पुष्णात्युदकेन भुव- नानि भूतजातानि वाजयुः तेषामन्नमिच्छन् मायाविनः मायाप्रज्ञा प्रज्ञावन्तः अस्यसोम- स्य मायया प्रज्ञया ममिरे निर्मांति सोमस्यैकैकांशपानेनजातबलाअग्न्यादयः स्वस्वव्यापा- रेणजगत्सृजंतीत्यर्थः । तथास्यमायया नृचक्षसोनृणांद्रष्टारः पालकादेवाः अंगिरसः पितरो- वागर्भमादधुः धारयंति ओषधीषु वा अत्रसूर्यात्मासोमः स्तूयते सूर्यरश्म्यनुगमाधीनवर्धना- च्चन्द्रस्य । अयमुषसः पृश्निःसविता अरूरुचत् रोचयति सर्वंरोचतेवा शिष्टंसमानम् । तत्सं- बंधिनः नृचक्षसः नृणांद्रष्टारः पितरोजग्द्रक्षकारश्मयोगर्भमादधुः वृष्ट्यर्थम् ॥ ३ ॥ अभिष्टवे खरमवेक्ष्यमाणो गंधर्वइत्थेत्येतांपठेत् । सूत्रितंच—गधर्वइत्थापदमस्यरक्षतीति खरमवेक्ष्येति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः