मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८४, ऋक् १

संहिता

पव॑स्व देव॒माद॑नो॒ विच॑र्षणिर॒प्सा इन्द्रा॑य॒ वरु॑णाय वा॒यवे॑ ।
कृ॒धी नो॑ अ॒द्य वरि॑वः स्वस्ति॒मदु॑रुक्षि॒तौ गृ॑णीहि॒ दैव्यं॒ जन॑म् ॥

पदपाठः

पव॑स्व । दे॒व॒ऽमाद॑नः । विऽच॑र्षणिः । अ॒प्साः । इन्द्रा॑य । वरु॑णाय । वा॒यवे॑ ।
कृ॒धि । नः॒ । अ॒द्य । वरि॑वः । स्व॒स्ति॒ऽमत् । उ॒रु॒ऽक्षि॒तौ । गृ॒णी॒हि॒ । दैव्य॑म् । जन॑म् ॥

सायणभाष्यम्

हे सोम देवमादनो देवानांमादयिता विचर्षणिः विद्रष्टा अप्साः अपांदातात्वं पवस्व क्षर । कस्मै इन्द्राय वरुणाय वायवे नोस्माकं वरिवोधनं स्वस्तिमत् । स्वस्तीत्यविनाश- नाम । तद्वद्धनं अद्य इदानीं कृधि कुरु । उरुक्षितौ विस्तीर्णायांभूमौ यज्ञसंबन्धिन्यां दैव्यं- जनं देवसंबन्धिनंसंघं जनशब्दःसंघवाची तंगृणीहि गृणातिःशब्दकर्मा शब्दय यथा त्वदी- याभिषवशब्दंश्रुत्वा देवाआगच्छन्ति तथागृणीहीत्यर्थः । अथवा दैव्यंजनमित्यृषिः स्वात्मा- नमाह देवसंबंधिनंजनं मांगृणीहि साधुसंभक्तेति शब्दय ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः