मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८४, ऋक् ५

संहिता

अ॒भि त्यं गाव॒ः पय॑सा पयो॒वृधं॒ सोमं॑ श्रीणन्ति म॒तिभि॑ः स्व॒र्विद॑म् ।
ध॒नं॒ज॒यः प॑वते॒ कृत्व्यो॒ रसो॒ विप्र॑ः क॒विः काव्ये॑ना॒ स्व॑र्चनाः ॥

पदपाठः

अ॒भि । त्यम् । गावः॑ । पय॑सा । प॒यः॒ऽवृध॑म् । सोम॑म् । श्री॒ण॒न्ति॒ । म॒तिऽभिः॑ । स्वः॒ऽविद॑म् ।
ध॒न॒म्ऽज॒यः । प॒व॒ते॒ । कृत्व्यः॑ । रसः॑ । विप्रः॑ । क॒विः । काव्ये॑न । स्वः॑ऽचनाः ॥

सायणभाष्यम्

त्यं तं पयोवृधं पयसोवर्धकं सोगं गावः पयसा स्वकीयेन क्षीरेण अभिश्रीणन्ति श्रय- णं कुर्वन्ति । योमतिभिः स्तुतिभिः सर्वंप्रयच्छति तं स्वर्विदं सोमं स्रीणन्ति सधनंजयः शत्रुधनानां जेतासोमः काव्येन कर्मणापवते पूयते । कीदृशः सकृत्व्यः कर्मण्यः रसोरसरूपः विप्रोमेधावी कविःक्रांतप्रज्ञः स्वर्चनाः सर्वान्नः चनइत्यन्ननाम ॥ ५ ॥

इन्द्रायइति द्वादशर्चंअष्टादशंसूक्तं भृगुगोत्रस्य वेनस्यार्षं पवमानसोमदेवताकं एका-दशीद्वादश्यौत्रिष्टुभौ शिष्टाजगत्यः । तथाचानुक्रान्तं—इन्द्रायद्वादश वेनोभार्गवोद्वित्रिष्टुबन्त- मिति । गतोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः