मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८५, ऋक् २

संहिता

अ॒स्मान्त्स॑म॒र्ये प॑वमान चोदय॒ दक्षो॑ दे॒वाना॒मसि॒ हि प्रि॒यो मदः॑ ।
ज॒हि शत्रूँ॑र॒भ्या भ॑न्दनाय॒तः पिबे॑न्द्र॒ सोम॒मव॑ नो॒ मृधो॑ जहि ॥

पदपाठः

अ॒स्मान् । स॒ऽम॒र्ये । प॒व॒मा॒न॒ । चो॒द॒य॒ । दक्षः॑ । दे॒वाना॑म् । असि॑ । हि । प्रि॒यः । मदः॑ ।
ज॒हि । शत्रू॑न् । अ॒भि । आ । भ॒न्द॒ना॒ऽय॒तः । पिब॑ । इ॒न्द्र॒ । सोम॑म् । अव॑ । नः॒ । मृधः॑ । ज॒हि॒ ॥

सायणभाष्यम्

हे पवमानसोम अस्मान् समर्थे संग्रामे चोदय प्रेरय दक्षोह्यसि समर्थः खलु भवसि देवानांमध्ये । यद्वा देवानां प्रीणनाय दक्षोसि यद्वा दक्षस्त्वं देवानांप्रियः प्रियकरोमदोमा- दयितासि हि । जहिचशत्रुनस्माकं अभ्यागच्छचास्मान् प्रति । भंदनाःस्तुतग्रः भंदतेःस्तुतिक- र्मणः ताइच्छतः पिब हे इन्द्र सोमं अवजहि नोस्माकं संग्रामकारिणो जहि मृधः संग्रा- मात् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०