मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८५, ऋक् ३

संहिता

अद॑ब्ध इन्दो पवसे म॒दिन्त॑म आ॒त्मेन्द्र॑स्य भवसि धा॒सिरु॑त्त॒मः ।
अ॒भि स्व॑रन्ति ब॒हवो॑ मनी॒षिणो॒ राजा॑नम॒स्य भुव॑नस्य निंसते ॥

पदपाठः

अद॑ब्धः । इ॒न्दो॒ इति॑ । प॒व॒से॒ । म॒दिन्ऽत॑मः । आ॒त्मा । इन्द्र॑स्य । भ॒व॒सि॒ । धा॒सिः । उ॒त्ऽत॒मः ।
अ॒भि । स्व॒र॒न्ति॒ । ब॒हवः॑ । म॒नी॒षिणः॑ । राजा॑नम् । अ॒स्य । भुव॑नस्य । निं॒स॒ते॒ ॥

सायणभाष्यम्

हे इन्दो क्लिद्यमानसोम अदब्धः अहिंसितोमदिन्तमोमादयितृतमस्त्वं पवसे पूयसे आत्मास्वयमेव उत्तमस्त्वं इन्द्रस्यधासिः अन्नंभवसि अस्यभुवनस्यराजानंसोमं बहवोमनी- षिणः स्तोतारोभिस्वरंति अभिष्टुवन्ति निंसते गच्छन्तिवा ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०