मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८६, ऋक् ७

संहिता

य॒ज्ञस्य॑ के॒तुः प॑वते स्वध्व॒रः सोमो॑ दे॒वाना॒मुप॑ याति निष्कृ॒तम् ।
स॒हस्र॑धार॒ः परि॒ कोश॑मर्षति॒ वृषा॑ प॒वित्र॒मत्ये॑ति॒ रोरु॑वत् ॥

पदपाठः

य॒ज्ञस्य॑ । के॒तुः । प॒व॒ते॒ । सु॒ऽअ॒ध्व॒रः । सोमः॑ । दे॒वाना॑म् । उप॑ । या॒ति॒ । निः॒ऽकृ॒तम् ।
स॒हस्र॑ऽधारः॑ । परि॑ । कोश॑म् । अ॒र्ष॒ति॒ । वृषा॑ । प॒वित्र॑म् । अति॑ । ए॒ति॒ । रोरु॑वत् ॥

सायणभाष्यम्

यज्ञस्यकेतुः प्रज्ञापकः स्वध्वरः शोभनयागः सोमः पवते पूयतेभिषूयते । तादृशः सोमो देवानांनिष्कृतं संस्कृतं स्थानमुपयाति उपगच्छति । तदर्थं सहस्रधारः कोशं द्रोणकलशं पर्यर्षति ततः तदर्थं वृषा सेक्तायं रोरुवत् शब्दयन् पवित्रमत्येति अतिक्रम्य गच्छत्यधो- देशम् ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३