मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८६, ऋक् ८

संहिता

राजा॑ समु॒द्रं न॒द्यो॒३॒॑ वि गा॑हते॒ऽपामू॒र्मिं स॑चते॒ सिन्धु॑षु श्रि॒तः ।
अध्य॑स्था॒त्सानु॒ पव॑मानो अ॒व्ययं॒ नाभा॑ पृथि॒व्या ध॒रुणो॑ म॒हो दि॒वः ॥

पदपाठः

राजा॑ । स॒मु॒द्रम् । न॒द्यः॑ । वि । गा॒ह॒ते॒ । अ॒पाम् । ऊ॒र्मिम् । स॒च॒ते॒ । सिन्धु॑षु । श्रि॒तः ।
अधि॑ । अ॒स्था॒त् । सानु॑ । पव॑मानः । अ॒व्यय॑म् । नाभा॑ । पृ॒थि॒व्याः । ध॒रुणः॑ । म॒हः । दि॒वः ॥

सायणभाष्यम्

अयं सोमोराजा समुद्रमन्तरिक्षं नद्यस्तत्रत्याअपश्च विगाहते विगाह्यचापामूर्मिं सचते उदकपूरंस्रवति सिंधुषु उदकेषु ग्रहेषुचाश्रितःसन् हूयमानःसन् रश्मिद्वारा सूर्यंप्राप्यान्त- रिक्षे मेघेषुवर्ततइत्यर्थः । अस्यैव वृष्टिसाधनत्वात् । यद्वा लुप्तोपममेतत् समुद्रंनद्यइव सिं- धुषुवसतीवरीषु श्रितआश्रितः सन् समुद्रमभिषुतसोमरसाधारपात्रं विगाहते अभिषवात् पूर्वम् । पश्चात्पवमानः पूयमानोव्ययं सानु समुच्छ्रितं दशापवित्रं अध्यस्थात् अधितिष्ठति कुत्रदेशे नाभापृथिव्या नाभिस्थानीयेयज्ञे तत्संबन्धिनि हविर्धानइत्यर्थः । यज्ञमाहुर्भुवनस्य- नाभिमितिश्रुतेः । कीदृशः महोदिवो द्युलोकस्य धरुणोधर्ता ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३